श्रवणम्

8.44.10
विप्रं॒ होता᳚रम॒द्रुहं᳚ धू॒मके᳚तुं वि॒भाव᳚सुम् ।
य॒ज्ञानां᳚ के॒तुमी᳚महे ॥
▶ पदपाठः (Word-by-word)
विप्र᳚म् । होता᳚रम् । अ॒द्रुह᳚म् । धू॒म॑के᳚तुम् । वि॒भा॑व᳚सुम् ।
य॒ज्ञाना᳚म् । के॒तुम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विप्रं मेधाविनं होतारं ह्वातारं अद्रुहमद्रोग्धारं धूमकेतुं धूमध्वजं विभावसुं दीप्तिधनं यज्ञानां केतुं पताकस्थानीयमग्निमीमहे अभीष्टं याचामहे ॥ १० ॥