अद᳚ब्धस्य स्व॒धाव᳚तो दू॒तस्य॒ रेभ᳚त॒ः सदा᳚ ।
अ॒ग्नेः स॒ख्यं वृ᳚णीमहे ॥
अ॒ग्नेः स॒ख्यं वृ᳚णीमहे ॥
पदपाठः (Word-by-word)
अद᳚ब्धस्य । स्व॒धा॑व᳚तः । दू॒तस्य᳚ । रेभ᳚तः । सदा᳚ ।
अ॒ग्नेः । स॒ख्यम् । वृ॒णी॒म॒हे॒ ॥
अ॒ग्नेः । स॒ख्यम् । वृ॒णी॒म॒हे॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने अदब्धस्य केनाप्यहिंसितस्य स्वधावतोबलवतो दूतस्य देवानां रेभतोदेवान् स्तुवतः अग्नेः तव सख्यं सदा वयं वृणीमहे ॥ २० ॥