धीरो॒ ह्यस्य᳚द्म॒सद्विप्रो॒ न जागृ᳚वि॒ः सदा᳚ ।
अग्ने᳚ दी॒दय᳚सि॒ द्यवि᳚ ॥
अग्ने᳚ दी॒दय᳚सि॒ द्यवि᳚ ॥
पदपाठः (Word-by-word)
धीरः᳚ । हि । असि᳚ । अ॒द्म॒॑सत् । विप्रः᳚ । न । जागृ᳚विः । सदा᳚ ।
अग्ने᳚ । दी॒दय᳚सि । द्यवि᳚ ॥
अग्ने᳚ । दी॒दय᳚सि । द्यवि᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने त्वं धीरोसिहि भवसि खलु । अद्मसद्धविषिसीदन् विप्रोन मेधावीव जागृविः प्रजानां हितकरणे जागरणशीलोसि सदा द्यव्यन्तरिक्षे दीदय- सि दीव्यसि च ॥ २९ ॥