अ॒ग्निः शुचि᳚व्रततम॒ः शुचि॒र्विप्र॒ः शुचि᳚ः क॒विः ।
शुची᳚ रोचत॒ आहु᳚तः ॥
शुची᳚ रोचत॒ आहु᳚तः ॥
पदपाठः (Word-by-word)
अ॒ग्निः । शुचि᳚व्रत॑तमः । शुचिः᳚ । विप्रः᳚ । शुचिः᳚ । क॒विः ।
शुचिः᳚ । रो॒च॒ते॒ । आ॑हु᳚तः ॥
शुचिः᳚ । रो॒च॒ते॒ । आ॑हु᳚तः ॥
सायणभाष्यम् (Sayana Commentary)
शुचिव्रततमःअतिशयेनशुद्धकर्मा शुचिः शुद्धएव विप्रोमेधावी शुचिः शुद्धःसन्नेव कविः क्रान्तकर्मा शुचिरेवाहुतोग्निः रोचते प्रकाशते ॥ २१ ॥