ईशि᳚षे॒ वार्य᳚स्य॒ हि दा॒त्रस्या᳚ग्ने॒ स्व᳚र्पतिः ।
स्तो॒ता स्यां॒ तव॒ शर्म᳚णि ॥
स्तो॒ता स्यां॒ तव॒ शर्म᳚णि ॥
पदपाठः (Word-by-word)
ईशि᳚षे । वार्य᳚स्य । हि । दा॒त्रस्य᳚ । अ॒ग्ने॒ । स्वः᳚॑पतिः ।
स्तो॒ता । स्या॒म् । तव᳚ । शर्म᳚णि ॥
स्तो॒ता । स्या॒म् । तव᳚ । शर्म᳚णि ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने स्वःपतिः स्वर्गस्य स्वामी त्वं वार्यस्य वरणीयस्य दात्रस्य दातव्यस्य धनस्य ईशिषे ईश्वरोसि । शर्मणि सुखे निमित्ते तव स्तोता स्यां भवेयम् ॥ १८ ॥