ऊ॒र्जो नपा᳚त॒मा हु᳚वे॒॑ग्निं पा᳚व॒कशो᳚चिषम् ।
अ॒स्मिन्य॒ज्ञे स्व᳚ध्व॒रे ॥
अ॒स्मिन्य॒ज्ञे स्व᳚ध्व॒रे ॥
पदपाठः (Word-by-word)
ऊ॒र्जः । नपा᳚तम् । आ । हु॒वे॒ । अ॒ग्निम् । पा॒व॒क॑शो᳚चिषम् ।
अ॒स्मिन् । य॒ज्ञे । सु॒॑अ॒ध्व॒रे ॥
अ॒स्मिन् । य॒ज्ञे । सु॒॑अ॒ध्व॒रे ॥
सायणभाष्यम् (Sayana Commentary)
ऊर्जोन्नस्य नपातं पुत्रं पावकशोचिषं शोधकदीप्तिमग्निं स्वध्वरे असुरैरत्यन्तमहिंस्येस्मिन्यज्ञे आहुवे आह्वयामि ॥ १३ ॥