श्रवणम्

8.73.7
अव᳚न्त॒मत्र᳚ये गृ॒हं कृ᳚णु॒तं यु॒वम᳚श्विना ।
अन्ति॒ षद्भू᳚तु वा॒मवः᳚ ॥
▶ पदपाठः (Word-by-word)
अव᳚न्तम् । अत्र᳚ये । गृ॒हम् । कृ॒णु॒तम् । यु॒वम् । अ॒श्वि॒ना॒ ।
अन्ति᳚ । सत् । भू॒तु॒ । वा॒म् । अवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना युवं युवां अत्रये अग्न्यागारे दह्यमानाय अवन्तं रक्षन्तं गृहं कृणुतं कृतवन्तौ तादृशयोर्वामवोभवतु । अवन्तमिति व्यत्ययेन पुँल्लिंगता ॥ ७ ॥