श्रवणम्

8.22.6
द॒श॒स्यन्ता॒ मन᳚वे पू॒र्व्यं दि॒वि यवं॒ वृके᳚ण कर्षथः ।
ता वा᳚म॒द्य सु᳚म॒तिभि᳚ः शुभस्पती॒ अश्वि᳚ना॒ प्र स्तु᳚वीमहि ॥
▶ पदपाठः (Word-by-word)
द॒श॒स्यन्ता᳚ । मन᳚वे । पू॒र्व्यम् । दि॒वि । यव᳚म् । वृके᳚ण । क॒र्ष॒थः॒ ।
ता । वा॒म् । अ॒द्य । सु॒म॒ति॑भिः᳚ । शु॒भः॒ । प॒ती॒ इति᳚ । अश्वि᳚ना । प्र । स्तु॒वी॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौपूर्व्यं पुरातनं दिवि द्युलोके स्थितमुदकं मनवे एतन्नामकायराज्ञे दशस्यन्तादशस्यन्तौ प्रयच्छन्तौ युवां वृकेण लांगलेन । वृकोलांगलंभव- ति विकर्तनादितियास्कः । तेन लांगलंन यवं यवनामकंधान्यं कर्षथः पुनश्च तस्मै विलेखनं कुरुथः । शुभस्पती उदकस्य पालयितारौ हे अश्विना अश्विनौ ता पूर्वोक्तलक्षणयुक्तौ वां युवां अद्यास्मिन्यज्ञदिने सुमतिभिः शोभनाभिः स्तुतिभिः प्रकर्षेण स्तुवीमहि वयं स्तुमः ॥ ६ ॥