श्रवणम्

8.22.17
आ नो॒ अश्वा᳚वदश्विना व॒र्तिर्या᳚सिष्टं मधुपातमा नरा ।
गोम᳚द्दस्रा॒ हिर᳚ण्यवत् ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । अश्व᳚॑वत् । अ॒श्वि॒ना॒ । व॒र्तिः । या॒सि॒ष्ट॒म् । म॒धु॒॑पा॒त॒मा॒ । न॒रा॒ ।
गो॑म᳚त् । द॒स्रा॒ । हिर᳚ण्य॑वत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मधुपातमा अतिशयेन मधोः सोमस्य पातारौ नरा नेतारौ दस्रा सर्वैर्दर्शनीयौ हे अश्विना अश्विनौ नोस्माकं वर्तिः वर्तते अत्रेति वर्तिर्गृहं तत् अश्वव- दश्वयुक्तं गोमत् गवादियुक्तं हिरण्यवत्सुवर्णकनकादियुक्तं कृत्वा यासिष्टं आगच्छतं यद्वास्मान्प्रति वर्तिर्यज्ञमार्गमश्वादियुक्तं कृत्वा आगच्छतं यातेर्लुङिरूपम् ॥ १७ ॥