श्रवणम्

8.22.16
मनो᳚जवसा वृषणा मदच्युता मक्षुंग॒माभि᳚रू॒तिभि᳚ः ।
आ॒रात्ता᳚च्चिद्भूतम॒स्मे अव᳚से पू॒र्वीभि᳚ः पुरुभोजसा ॥
▶ पदपाठः (Word-by-word)
मनः᳚॑जवसा । वृ॒ष॒णा॒ । म॒द॒॑च्यु॒ता॒ । म॒क्षु॒म्॑ग॒माभिः᳚ । ऊ॒ति॑भिः᳚ ।
आ॒रात्ता᳚त् । चि॒त् । भू॒त॒म् । अ॒स्मे इति᳚ । अव᳚से । पू॒र्वीभिः᳚ । पु॒रु॒॑भो॒ज॒सा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मनोजवसा मनोवत् शीघ्रं गच्छन्तौ वृषणा वृषणौ धनानां वर्षितारौ मदच्युता माद्यंतीति मदाः शत्रवः तेषांच्यावयितारौ पुरुभोजसा बहूनां भोक्तारौ रक्षकौ यद्वा बहून् स्तोतृन् धनादिभिः भोजयन्तौ हे अश्विनौ मक्षुंगमाभिः शीघ्रं गच्छद्धिः ऊतिभीरक्षाभिः पूर्वीभिर्बहुभिः अस्मे अस्मा- कमवसे रक्षणाय आरात्तातुचित् अन्तिकएव भूतं भवतम् ॥ १६ ॥