श्रवणम्

8.22.12
ताभि॒रा या᳚तं वृष॒णोप᳚ मे॒ हवं᳚ वि॒श्वप्सुं᳚ वि॒श्ववा᳚र्यम् ।
इ॒षा मंहि᳚ष्ठा पुरु॒भूत᳚मा नरा॒ याभि॒ः क्रिविं᳚ वावृ॒धुस्ताभि॒रा ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
ताभिः᳚ । आ । या॒त॒म् । वृ॒ष॒णा॒ । उप᳚ । मे॒ । हव᳚म् । वि॒श्व॑प्सु᳚म् । वि॒श्व॑वा᳚र्यम् ।
इ॒षा । मंहि᳚ष्ठा । पु॒रु॒॑भूत᳚मा । न॒रा॒ । याभिः᳚ । क्रिवि᳚म् । व॒वृ॒धुः । ताभिः᳚ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषणा वृषणौ वर्षणशीलौ हे अश्विनौ विश्वप्सुं प्सइति रूपनाम स्तोत्रशस्त्रात्मकत्वेन नानारूपं विश्ववार्यं सेर्वैर्देवैर्वरणीयं मे मदीयं हवं युष्मद्विष- यमाह्वानमा अभिमुखीकृत्य ताभिरूतिभिरुपयातं युवामागच्छतम् । याभिः नरा नरौ सर्वस्य नेतारौ अश्विनौ इषा इष इच्छायां हवींषीच्छन्तौ मं- हिष्ठा मंहिष्ठौ अतिशयेन धनानां दातारौ पुरुभूतमा पुरुहूतमौ युद्धेषु अत्यंतं पुरुधा भवन्तौ यद्वा अतिशयेन बहूनां शत्रूणामभिभवितारौ भवन्तौ क्रिविं कूपं प्रतियाभिरूतिभिरुदकानि वावृधुः अवर्धयतः द्वयोर्बहुवचनं पूजार्थं कूपपतितोवंदनमालाभिः कूपं पूरयित्वा युवाभ्यामुत्थापितः खलु । तथामन्त्रः-उद्वन्दनमैरयतंस्वर्दृशइति । ताभिस्तैः पालनैरागतं अस्मद्रक्षणार्थमागच्छतम् ॥ १२ ॥