श्रवणम्

8.94.12
त्यं नु मारु᳚तं ग॒णं गि᳚रि॒ष्ठां वृष᳚णं हुवे ।
अ॒स्य सोम᳚स्य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
त्यम् । नु । मारु᳚तम् । ग॒णम् । गि॒रि॒॑स्थाम् । वृष᳚णम् । हु॒वे॒ ।
अ॒स्य । सोम᳚स्य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्यं तं सर्वत्रविस्तृतं गिरिष्ठां गिरिषु मेघेषु पर्वतेषु वा तिष्ठन्तं वृषणं उदकानां कामानां वा वर्षितारं मारुतं मरुत्संबन्धिनं गणं संघं नु क्षिप्रं हुवे बिंदुरहमाह्वयामि । किं प्रयोजनं अस्य अस्मदीयस्य सोमस्य पीतये पानाय ॥ १२ ॥

आत्वेति नवर्चं द्वितीयंसूक्तं आनुष्टुभमैन्द्रं तिरश्चीनामांगिरसऋषिः । तथाचानुक्रम्यतेआत्वानव तिरश्चीरांगिरस आनुष्टुभमिति । आभिप्लविकेषुक्थ्येषु तृतीयसवनेच्छावाकस्यात्वागिरइति तृचोवैकल्पिकोनुरूपः सूत्र्यतेहि-गायन्तित्वागायत्रिण आत्वागिरोरथीरिवेति ।