श्रवणम्

8.5.22
क॒दा वां᳚ तौ॒ग्र्यो वि᳚धत्समु॒द्रे ज᳚हि॒तो न᳚रा ।
यद्वां॒ रथो॒ विभि॒ष्पता᳚त् ॥
▶ पदपाठः (Word-by-word)
क॒दा । वा॒म् । तौ॒ग्र्यः । वि॒ध॒त् । स॒मु॒द्रे । ज॒हि॒तः । न॒रा॒ ।
यत् । वा॒म् । रथः᳚ । वि॑भिः᳚ । पता᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरा नरौ नेतारावश्विनौ तौग्र्यः तुग्रपुत्रोभुज्युः समुद्रे जलधौ जहितः असुरैः प्रक्षिप्तः सन् कदा कस्मिन्काले वां युवां विधत् अविधत् स्तुतिभिः पर्यचरत् यत् यदा वां युवयोर्विभिः गन्तृभिः अश्वैरुपेतोरथः पतात् तंभुज्युं आनेतुं पतेत् गच्छेत् तदानीं भुज्युरस्तौदिति पूर्वेणार्धेन पृष्टस्य प्रतिवचनम् ॥ २२ ॥