आ नो॒ गव्या॒न्यश्व्या᳚ स॒हस्रा᳚ शूर दर्दृहि ।
दि॒वो अ॒मुष्य॒ शास᳚तो॒ दिवं᳚ य॒य दि᳚वावसो ॥
दि॒वो अ॒मुष्य॒ शास᳚तो॒ दिवं᳚ य॒य दि᳚वावसो ॥
पदपाठः (Word-by-word)
आ । नः॒ । गव्या᳚नि । अश्व्या᳚ । स॒हस्रा᳚ । शू॒र॒ । द॒र्दृ॒हि॒ ।
दि॒वः । अ॒मुष्य᳚ । शास᳚तः । दिव᳚म् । य॒य । दि॒वा॒व॒सो॒ इति᳚ दिवा॑वसो ॥
दि॒वः । अ॒मुष्य᳚ । शास᳚तः । दिव᳚म् । य॒य । दि॒वा॒व॒सो॒ इति᳚ दिवा॑वसो ॥
सायणभाष्यम् (Sayana Commentary)
हे शूरेन्द्र त्वं नोस्मभ्यं सहस्रा सहस्राणि सहस्रसंख्यानि गव्यानि गोहितानि गोरूपाणि वा अश्व्या अश्व्यान्यश्वहितानि अश्वात्मकानिवा दर्दृह्यावि- वृणु । सिद्धमन्यत् ॥ १४ ॥