शं नो᳚ भव हृ॒द आ पी॒त इ᳚न्दो पि॒तेव᳚ सोम सू॒नवे᳚ सु॒शेवः᳚ ।
सखे᳚व॒ सख्य᳚ उरुशंस॒ धीर॒ः प्र ण॒ आयु᳚र्जी॒वसे᳚ सोम तारीः ॥
सखे᳚व॒ सख्य᳚ उरुशंस॒ धीर॒ः प्र ण॒ आयु᳚र्जी॒वसे᳚ सोम तारीः ॥
पदपाठः (Word-by-word)
शम् । नः॒ । भ॒व॒ । हृ॒दे । आ । पी॒तः । इ॒न्दो॒ इति᳚ । पि॒ता॑इ᳚व । सो॒म॒ । सू॒नवे᳚ । सु॒॑शेवः᳚ ।
सखा᳚॑इव । सख्ये᳚ । उ॒रु॒॑शं॒स॒ । धीरः᳚ । प्र । नः॒ । आयुः᳚ । जी॒वसे᳚ । सो॒म॒ । ता॒रीः॒ ॥
सखा᳚॑इव । सख्ये᳚ । उ॒रु॒॑शं॒स॒ । धीरः᳚ । प्र । नः॒ । आयुः᳚ । जी॒वसे᳚ । सो॒म॒ । ता॒रीः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्रो सोम अस्माभिः पीतस्त्वं नोस्माकं हृदे हृदयाय शं सुखं आभव । सुखभवने दृष्टान्तद्वयम्-पितेव सूनवे स्वात्मजाय यथा सुखाय भवति । यथा वा सखाऽहितान्निवर्त्य हिते स्थापयिता सखायं स्वसख्ये यथा सुशेवः सु सुखोभवति शेवमिति सुखनाम तद्वत्त्वमपि भव । किञ्च हे उरुशंस बहुभिर्बहुधावा शंसनीय बहुकीर्ते सोम धीरो धीमांस्त्वं नोस्माकं जीवसे जीवनाय आयुरायुष्यं प्रतारीः प्रवर्धय ॥ ४ ॥