इ॒मे मा᳚ पी॒ता य॒शस᳚ उरु॒ष्यवो॒ रथं॒ न गाव॒ः सम᳚नाह॒ पर्व᳚सु ।
ते मा᳚ रक्षन्तु वि॒स्रस᳚श्च॒रित्रा᳚दु॒त मा॒ स्रामा᳚द्यवय॒न्त्विन्द᳚वः ॥
ते मा᳚ रक्षन्तु वि॒स्रस᳚श्च॒रित्रा᳚दु॒त मा॒ स्रामा᳚द्यवय॒न्त्विन्द᳚वः ॥
पदपाठः (Word-by-word)
इ॒मे । मा॒ । पी॒ताः । य॒शसः᳚ । उ॒रु॒ष्यवः᳚ । रथ᳚म् । न । गावः᳚ । सम् । अ॒ना॒ह॒ । पर्व᳚॑सु ।
ते । मा॒ । र॒क्ष॒न्तु॒ । वि॒॑स्रसः᳚ । च॒रित्रा᳚त् । उ॒त । मा॒ । स्रामा᳚त् । य॒व॒य॒न्तु॒ । इन्द᳚वः ॥
ते । मा॒ । र॒क्ष॒न्तु॒ । वि॒॑स्रसः᳚ । च॒रित्रा᳚त् । उ॒त । मा॒ । स्रामा᳚त् । य॒व॒य॒न्तु॒ । इन्द᳚वः ॥
सायणभाष्यम् (Sayana Commentary)
इमे पीताः यशसो यशस्कराः उरुष्यवोस्माकं रक्षाकामाः सोमाः गावो गोविकारभूता वध्वः रथंन रथमिव ताः यथा रथं विस्रस्तं पर्वसु समनाह सन्दधते तद्वन्मां पीताः सोमाः पर्वसु संनह्यन्तु । किञ्च ते सोमाः मा मां विस्रसो विस्रस्ताच्चरिताच्चरणादनुष्ठानाद्रक्षन्तु सोमः पीतश्चेत्कर्मह्यविस्रस्तं भवति । उतापिच मा मां स्रामाद्माधेः सकाशादिन्दवः पीता यवयन्तु पृथक्कुर्वन्तु ॥ ५ ॥