ऋ॒दू॒दरे᳚ण॒ सख्या᳚ सचेय॒ यो मा॒ न रिष्ये᳚द्धर्यश्व पी॒तः ।
अ॒यं यः सोमो॒ न्यधा᳚य्य॒स्मे तस्मा॒ इन्द्रं᳚ प्र॒तिर᳚मे॒म्यायु᳚ः ॥
अ॒यं यः सोमो॒ न्यधा᳚य्य॒स्मे तस्मा॒ इन्द्रं᳚ प्र॒तिर᳚मे॒म्यायु᳚ः ॥
पदपाठः (Word-by-word)
ऋ॒दू॒दरे᳚ण । सख्या᳚ । स॒चे॒य॒ । यः । मा॒ । न । रिष्ये᳚त् । ह॒रि॒॑अ॒श्व॒ । पी॒तः ।
अ॒यम् । यः । सोमः᳚ । नि । अधा᳚यि । अ॒स्मे इति᳚ । तस्मै᳚ । इन्द्र᳚म् । प्र॒॑तिर᳚म् । ए॒मि॒ । आयुः᳚ ॥
अ॒यम् । यः । सोमः᳚ । नि । अधा᳚यि । अ॒स्मे इति᳚ । तस्मै᳚ । इन्द्र᳚म् । प्र॒॑तिर᳚म् । ए॒मि॒ । आयुः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अहंप्रगाथो ऋदूदरेण उदराबाधकेन सोमेन सख्या सचेय संगच्छेय संगतोभवामि । ऋदूदरः सोमोमृदूदरइतियास्कः । यःसोमः पीतःसन् मा मां नरिष्येत् नहिंस्येत् । हे हर्यश्वेन्द्र । सौम्ये सूक्ते इन्द्रस्यकीर्तनं सोमस्येन्द्रस्वामिकत्वान्नविरुद्धम् । योयं सोमोस्मेस्मासु न्यधायि निहितोभूत्तस्मै सोमाय प्रतिरमायुर्जठरे चिरकालावस्थानं इन्द्रमेमि याचे ॥ १० ॥