श्रवणम्

8.91.6
अ॒सौ च॒ या न᳚ उ॒र्वरादि॒मां त॒न्वं१॒᳚ मम᳚ ।
अथो᳚ त॒तस्य॒ यच्छिर॒ः सर्वा॒ ता रो᳚म॒शा कृ᳚धि ॥
▶ पदपाठः (Word-by-word)
अ॒सौ । च॒ । या । नः॒ । उ॒र्वरा᳚ । आत् । इ॒माम् । त॒न्व᳚म् । मम᳚ ।
अथो॒ इति᳚ । त॒तस्य᳚ । यत् । शिरः᳚ । सर्वा᳚ । ता । रो॒म॒शा । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उक्तमेवार्थमनयाविवृणोति नोस्माकं पितुर्यासा उर्वरा यदिदमूषरं क्षेत्रमस्ति आदनन्तरं मम इमां तन्वं इदं त्वग्दोषदुष्टं गुह्यस्थानं अथो अथापिच ततस्य तातस्य यच्छिरोरोमवर्जितमस्ति एतानि सर्वा सर्वाणि नानीमानि त्रीणि स्थानानि रोमशा रोमशानि कृधि कुरु ॥ ६ ॥