श्रवणम्

8.91.4
कु॒विच्छक᳚त्कु॒वित्कर᳚त्कु॒विन्नो॒ वस्य᳚स॒स्कर᳚त् ।
कु॒वित्प᳚ति॒द्विषो᳚ य॒तीरिन्द्रे᳚ण सं॒गमा᳚महै ॥
▶ पदपाठः (Word-by-word)
कु॒वित् । शक᳚त् । कु॒वित् । कर᳚त् । कु॒वित् । नः॒ । वस्य᳚सः । कर᳚त् ।
कु॒वित् । प॒ति॒॑द्विषः᳚ । य॒तीः । इन्द्रे᳚ण । स॒म्॑गमा᳚महै ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमं पीतवानिन्द्रोस्मानेवं करोत्वित्याह-सइन्द्रः कुविद्बहुवारमस्मान् शकत् शक्तान् समर्थान् करोतु । किंच कुवित् बहुचास्मभ्यं करत् करोतु । किंच सएवेन्द्रोनोस्मान् कुवित् बहुकृत्वा वस्यसः वसीयसः अतिशयेन वसुमतः करोतु । करोतेः शक्नोतेश्च लेट्यडागमः । इदानीमात्रेयी अहमे- वंकरिष्यामीति वदति पूर्वं कुविद्बहु पतिद्विषः त्वग्दोषात् पतिभिर्भर्तृभिः बहुवारं द्विष्टाः अतएव यतीः पतिभ्यः सकाशादितोगच्छन्त्योवयं कैश्चित् अप्यनूह्यमानाः सत्यः संप्रतीन्द्रेण सह संगमामहै संगच्छामहै सर्वत्र पूजार्थे बहुवचनम् । संगमशब्देनेन्द्रोपालामचकमतेति ॥ ४ ॥