श्रवणम्

8.87.3
आ वां॒ विश्वा᳚भिरू॒तिभि᳚ः प्रि॒यमे᳚धा अहूषत ।
ता व॒र्तिर्या᳚त॒मुप᳚ वृ॒क्तब᳚र्हिषो॒ जुष्टं᳚ य॒ज्ञं दिवि᳚ष्टिषु ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । विश्वा᳚भिः । ऊ॒ति॑भिः᳚ । प्रि॒य॑मे᳚धाः । अ॒हू॒ष॒त॒ ।
ता । व॒र्तिः । या॒त॒म् । उप᳚ । वृ॒क्त॑ब᳚र्हिषः । जुष्ट᳚म् । य॒ज्ञम् । दिवि᳚ष्टिषु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ प्रियमेधाः मेधोयज्ञः प्रियतमयज्ञा यजमानाः । यद्वा प्रियमेधा एतन्नामकऋषिः पूजायां बहुवचनं यष्टारः ऋषिर्वा विश्वाभिरूतिभिः सर्वैः पालनैः सह अथवा अवतिर्याञ्चाकर्मा सर्वैरभिलषितयाजनैः सहिता आहूषत आह्वासिषुः आह्वासीत् आत्मना पालनहेतुकत्वेन यद्वा- भिलषितदानाय वां आह्वयन्ति । ता तौ युवां वृक्तबर्हिषः आस्तरणार्थं छिन्नबर्हिषोयष्टुः संबन्धि जुष्टं सर्वैः देवैः सेवितं पर्याप्तं वा यज्ञं यजनीयं हविः प्रति दिविष्टिषु दिवसानामह्नामागमनेषु प्रातः कालेषु यज्ञेषुवा वर्तिः वर्तन्ते अत्रेति वर्तिर्गृहं तदुपायातं हविः स्वीकरणार्थं युवामाग- च्छतम् ॥ ३ ॥