श्रवणम्

8.87.4
पिब᳚तं॒ सोमं॒ मधु᳚मन्तमश्वि॒ना ब॒र्हिः सी᳚दतं सु॒मत् ।
ता वा᳚वृधा॒ना उप᳚ सुष्टु॒तिं दि॒वो ग॒न्तं गौ॒रावि॒वेरि᳚णम् ॥
▶ पदपाठः (Word-by-word)
पिब᳚तम् । सोम᳚म् । मधु᳚॑मन्तम् । अ॒श्वि॒ना॒ । आ । ब॒र्हिः । सी॒द॒त॒म् । सु॒॑मत् ।
ता । व॒वृ॒धा॒नौ । उप᳚ । सु॒॑स्तु॒तिम् । दि॒वः । ग॒न्तम् । गौ॒रौ॑इ᳚व । इरि᳚णम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनाश्विनौ मधुमन्तं रसवन्तं मदवन्तंवा सोमं युवां पिबतं ततोबर्हिः बर्हिषि यज्ञे सुमत् शोभनमासीदतम् । पश्चात् ववृधानौ सोमपानेन वृद्धौ ता तौ युवां दिवः द्युलोकात् सुष्टुतिं अस्माभिः क्रियमाणां शोभनां स्तुतिं उपगन्तं उपगच्छतम् । तत्रदृष्टान्तः-गौरविव यथा गौरमृगौ अन्यस्मा- द्देशादिरिणं तटाकादिकं प्रति जलपानार्थं आगच्छतस्तद्वत् ॥ ४ ॥