श्रवणम्

8.21.7
नूत्ना॒ इदि᳚न्द्र ते व॒यमू॒ती अ᳚भूम न॒हि नू ते᳚ अद्रिवः ।
वि॒द्मा पु॒रा परी᳚णसः ॥
▶ पदपाठः (Word-by-word)
नूत्नाः᳚ । इत् । इ॒न्द्र॒ । ते॒ । व॒यम् । ऊ॒ती । अ॒भू॒म॒ । न॒हि । नु । ते॒ । अ॒द्रि॒॑वः॒ ।
वि॒द्म । पु॒रा । परी᳚णसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव उती उत्यै रक्षणे वयं नूत्नाइत् नूतनाएव अभूम भवामः । अद्रिवः वज्रिन् हे इन्द्र पुरा पूर्वं त्वां परीणसः सुबूव्यत्ययः परीणसं परितो- व्याप्तं महांतं वेति नहिविद्म नजानीमः । नु सम्प्रति ते त्वां महान्तमिति जानन्तोवयं भवता रक्ष्याइति ॥ ७ ॥