श्रवणम्

8.21.13
अ॒भ्रा॒तृ॒व्यो अ॒ना त्वमना᳚पिरिन्द्र ज॒नुषा᳚ स॒नाद᳚सि ।
यु॒धेदा᳚पि॒त्वमि᳚च्छसे ॥
▶ पदपाठः (Word-by-word)
अ॒भ्रा॒तृ॒व्यः । अ॒ना । त्वम् । अना᳚पिः । इ॒न्द्र॒ । ज॒नुषा᳚ । स॒नात् । अ॒सि॒ ।
यु॒धा । इत् । आ॒पि॒॑त्वम् । इ॒च्छ॒से॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं जनुषा जन्मनैव अभ्रातृव्यः । व्यन्त्सपत्नइति व्यन्प्रत्ययः । सपत्नरहितैः अना अनेतृकः ऋतश्छन्दसीतिकपः प्रतिषेधः अनियन्तृकइत्यर्थः अनापिः बन्धुवर्जितश्च सनादसि चिरादेव भ्रातृव्यादिवर्जितोसि यञ्व त्वं आपित्वं बान्धवमिच्छसे इच्छसि तत्र युधेत् युद्धेनैव युद्धं कुर्वन्नेव स्तोतृ- णां सखाभवसीति ॥ १३ ॥