श्रवणम्

8.21.11
त्वया᳚ ह स्विद्यु॒जा व॒यं प्रति᳚ श्व॒सन्तं᳚ वृषभ ब्रुवीमहि ।
सं॒स्थे जन᳚स्य॒ गोम᳚तः ॥
▶ पदपाठः (Word-by-word)
त्वया᳚ । ह॒ । स्वि॒त् । यु॒जा । व॒यम् । प्रति᳚ । श्व॒सन्त᳚म् । वृ॒ष॒भ॒ । ब्रु॒वी॒म॒हि॒ ।
स॒म्॑स्थे । जन᳚स्य । गो॑म᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषभ वर्षितः हे इन्द्र गोमतोगवादियुक्तस्य जनस्य संस्थे स्थाने युद्धे श्वसन्तं अस्मान् प्रति क्रोधातिशयेन श्वासकारिणं शत्रुं युजा सहायेन त्वया ह स्वित् त्वयैव खलु वयं प्रतिब्रुवीमहि प्रतिवचनं कुर्मः निराकरिष्यामैअत्यर्थः ॥ ११ ॥