श्रवणम्

8.21.16
मा ते᳚ गोदत्र॒ निर᳚राम॒ राध᳚स॒ इन्द्र॒ मा ते᳚ गृहामहि ।
दृ॒ळ्हा चि᳚द॒र्यः प्र मृ᳚शा॒भ्या भ᳚र॒ न ते᳚ दा॒मान᳚ आ॒दभे᳚ ॥
▶ पदपाठः (Word-by-word)
मा । ते॒ । गो॒॑द॒त्र॒ । निः । अ॒रा॒म॒ । राध᳚सः । इन्द्र᳚ । मा । ते॒ । गृ॒हा॒म॒हि॒ ।
दृ॒ळ्हा । चि॒त् । अ॒र्यः । प्र । मृ॒श॒ । अ॒भि । आ । भ॒र॒ । न । ते॒ । दा॒मानः᳚ । आ॒॑दभे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे गोदत्र स्तोतृणां गवादिदानशील हे इन्द्र ते तव स्व भूतावयं राधसोधनात् मानिरराम मानिर्गमाम अर्तेर्लुङि सर्तिशास्त्यर्तिभ्यश्चेत्यङादेशः ऋ- दृशोङीतिगुणः सर्वदा त्वत्तोधनाढचाभवाम । किञ्च ते तव स्वभूतावयं धनं प्रयच्छाम कस्माञ्चित् मागृहामहि तस्मादन्यंनगृह्णीमः । अपितु त्वत्त- एव धनंगृह्णीमइत्यर्थः । ग्रहेर्लुङि बहुलंछन्दसीतिशः ङित्वात्सम्प्रसारणम् । अर्यः स्वामी त्वं दृढाचित् दृढान्यपि अविनश्वराणि धनानि प्रमृश प्रकर्षे- णास्मासु स्थापय । किञ्च अभ्याभिमुख्येन आभर धनादिभिः समन्तादस्मान् पोषय ते तव दामानः तानिदानानि नादभे नकैश्चिदप्यादंभितुं शक्य- न्ते तस्माद्दानादियुक्तानस्मान् कुर्वित्यर्थः ॥ १६ ॥