हर्य᳚श्वं॒ सत्प᳚तिं चर्षणी॒सहं॒ स हि ष्मा॒ यो अम᳚न्दत ।
आ तु न॒ः स व᳚यति॒ गव्य॒मश्व्यं᳚ स्तो॒तृभ्यो᳚ म॒घवा᳚ श॒तम् ॥
आ तु न॒ः स व᳚यति॒ गव्य॒मश्व्यं᳚ स्तो॒तृभ्यो᳚ म॒घवा᳚ श॒तम् ॥
पदपाठः (Word-by-word)
हरि᳚॑अश्वम् । सत्॑प᳚तिम् । च॒र्ष॒णि॒॑सह᳚म् । सः । हि । स्म॒ । यः । अम᳚न्दत ।
आ । तु । नः॒ । सः । व॒य॒ति॒ । गव्य᳚म् । अश्व्य᳚म् । स्तो॒तृ॑भ्यः᳚ । म॒घ॑वा᳚ । श॒तम् ॥
आ । तु । नः॒ । सः । व॒य॒ति॒ । गव्य᳚म् । अश्व्य᳚म् । स्तो॒तृ॑भ्यः᳚ । म॒घ॑वा᳚ । श॒तम् ॥
सायणभाष्यम् (Sayana Commentary)
हर्यश्वं हरितवर्णाश्वोपेतं सत्पतिं स्वप्रकाशाधिक्येन सतां नक्षत्राणां पतिं सतां श्रेष्ठानां पतिंवा चर्षणीसहं चर्षणीनां शत्रुभूतानां मनुष्याणामभिभ- वितारं सहिष्म सखलु जनः स्तौति । योजनः अमन्दत ततोलब्धधनः सन् तृप्तोभवति सएनं तुष्टूषति । एवंसति मघवा धनवान् सइन्द्रः शतं गव्य- मश्व्यमनेकं गवाश्वसंघं स्तोतृभ्योनोस्मभ्यं तु क्षिप्रमावपति आप्रापयतु । वीगत्यांदिषु अस्माल्लेट्यडागमः ततोलब्धगवादिकावयं चैनं स्तुमइति ॥ १० ॥