नकी᳚ रे॒वन्तं᳚ स॒ख्याय᳚ विन्दसे॒ पीय᳚न्ति ते सुरा॒श्व᳚ः ।
य॒दा कृ॒णोषि᳚ नद॒नुं समू᳚ह॒स्यादित्पि॒तेव᳚ हूयसे ॥
य॒दा कृ॒णोषि᳚ नद॒नुं समू᳚ह॒स्यादित्पि॒तेव᳚ हूयसे ॥
पदपाठः (Word-by-word)
नकिः᳚ । रे॒वन्त᳚म् । स॒ख्याय᳚ । वि॒न्द॒से॒ । पीय᳚न्ति । ते॒ । सु॒रा॒श्वः᳚ ।
य॒दा । कृ॒णोषि᳚ । न॒द॒नुम् । सम् । ऊ॒ह॒सि॒ । आत् । इत् । पि॒ता॑इ᳚व । हू॒य॒से॒ ॥
य॒दा । कृ॒णोषि᳚ । न॒द॒नुम् । सम् । ऊ॒ह॒सि॒ । आत् । इत् । पि॒ता॑इ᳚व । हू॒य॒से॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र रेवन्तं धनवन्तं केवलधनवन्तं दानादिरहितमयष्टारमाढचं मानवं सख्याय सखिभावाय नकिर्विंदसे नभजसे नाश्रयसीत्यर्थः । अयष्टारोज- नाः किं सन्तीत्यताअह- सूराश्वः टुओश्विगतिवृध्योः सुरया वृद्धाः तद्वत् प्रमत्ताः नास्तिकाः ते त्वां पीयंति पीयतिर्हिंसाकर्मा हिंसन्ति तान्नाश्रयसी- त्यर्थः । यदा त्वं नदनुं नदअव्यक्ते शब्दे यं स्तोतारं कृणोषि मदीयोयमिति यदा भावयसि तदानीं समूहयसि धनादिकं तस्मै वहसि । आदित् अन- न्तरमेव तेन लब्धधनेन स्तोत्रा पितेव पालयिता जनकइव हूयसे स्तुतिभिराहूयसे स्तूयसइत्यर्थः ॥ १४ ॥