श्रवणम्

8.21.6
अच्छा᳚ च त्वै॒ना नम᳚सा॒ वदा᳚मसि॒ किं मुहु᳚श्चि॒द्वि दी᳚धयः ।
सन्ति॒ कामा᳚सो हरिवो द॒दिष्ट्वं स्मो व॒यं सन्ति᳚ नो॒ धियः᳚ ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । च॒ । त्वा॒ । ए॒ना । नम᳚सा । वदा᳚मसि । किम् । मुहुः᳚ । चि॒त् । वि । दी॒ध॒यः॒ ।
सन्ति᳚ । कामा᳚सः । ह॒रि॒॑वः॒ । द॒दिः । त्वम् । स्मः । व॒यम् । सन्ति᳚ । नः॒ । धियः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र अच्छाच अपिच आभिमुख्येनवा एना एनेन नमसा स्तोत्रेण हविर्लक्षणेनान्नेनवा सह त्वा त्वां वदामसि अभिवदामः चवायोगे प्रथमेति न- निघातः । त्वंतु मुहुश्चित् मुहुर्मुहुः किं कस्माद्धेतोर्विदीधयः विपूर्वोदीधितिश्चिंतने विचिंतयसि दीधीङ् दीप्तिदेवनयोः व्यत्ययेन परस्मैपदम् लुगभा- वश्च । किमर्थं यूयं वदथेतिचेत् हरिवः हरिताश्ववन् हे इन्द्र अस्माकं कामासः पुत्रपश्वादिविषयाः कामाः सन्ति कामाः सन्तु । अहं नप्रयच्छामीति- चेत् त्वंतु ददिः धनादिदाता खलु तस्माद्वयं त्वत्सन्निधौ स्मोभवामः । किञ्ज नोस्माकं धियः कर्माभिच तवसमीपे सन्ति तिष्ठन्ति । ततोधनादिला- भार्थं त्वां वदामइत्यर्थः ॥ ६ ॥