यो न᳚ इ॒दमि᳚दं पु॒रा प्र वस्य᳚ आनि॒नाय॒ तमु᳚ वः स्तुषे ।
सखा᳚य॒ इन्द्र᳚मू॒तये᳚ ॥
सखा᳚य॒ इन्द्र᳚मू॒तये᳚ ॥
पदपाठः (Word-by-word)
यः । नः॒ । इ॒दम्॑इ᳚दम् । पु॒रा । प्र । वस्यः᳚ । आ॒॑नि॒नाय᳚ । तम् । ऊं॒ इति᳚ । वः॒ । स्तु॒षे॒ ।
सखा᳚यः । इन्द्र᳚म् । ऊ॒तये᳚ ॥
सखा᳚यः । इन्द्र᳚म् । ऊ॒तये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
सखायः समानख्याना हे ऋत्विग्यजमानाः यइन्द्रः पुरा पूर्वमिदमिदं दर्शनीयतया विद्यमानं वस्यः वसीयः वसोरीयसुनीकारलोपश्छान्द्रसः प्रशस्तं वसु नोस्मान् प्राणिनाय प्रकर्षेणानीतवान् । तमु तमेव धनानामानेतारमिन्द्रं वोयुष्माकं धनलाभार्थं ऊतये रक्षणायच स्तुषे सोभरिरहं स्तौमि ॥ ९ ॥