आ या᳚ही॒म इन्द॒वो॑श्व᳚पते॒ गोप᳚त॒ उर्व᳚रापते ।
सोमं᳚ सोमपते पिब ॥
सोमं᳚ सोमपते पिब ॥
पदपाठः (Word-by-word)
आ । या॒हि॒ । इ॒मे । इन्द᳚वः । अश्व᳚॑पते । गो॑प᳚ते । उर्व᳚रा॑पते ।
सोम᳚म् । सो॒म॒॑प॒ते॒ । पि॒ब॒ ॥
सोम᳚म् । सो॒म॒॑प॒ते॒ । पि॒ब॒ ॥
सायणभाष्यम् (Sayana Commentary)
अश्वपते अश्वानां स्वामिन् गोपते गवां पालयितः उर्वरापते सर्वसस्याढचाभूमिरुर्वरा तस्याः पते हे इन्द्र इन्द्रवः सोमाः इमे भवदीयाः त्वदर्थमभि- षुताइत्यर्थः तस्मादायाहि आगच्छ आगत्य सोमपते हे इंद्र सोमं पिब ॥ ३ ॥