इन्द्रो᳚ वा॒ घेदिय᳚न्म॒घं सर᳚स्वती वा सु॒भगा᳚ द॒दिर्वसु᳚ ।
त्वं वा᳚ चित्र दा॒शुषे᳚ ॥
त्वं वा᳚ चित्र दा॒शुषे᳚ ॥
पदपाठः (Word-by-word)
इन्द्रः᳚ । वा॒ । घ॒ । इत् । इय᳚त् । म॒घम् । सर᳚स्वती । वा॒ । सु॒॑भगा᳚ । द॒दिः । वसु᳚ ।
त्वम् । वा॒ । चि॒त्र॒ । दा॒शुषे᳚ ॥
त्वम् । वा॒ । चि॒त्र॒ । दा॒शुषे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अत्र चित्रस्य दानं स्तौति चित्रोनामराजा सरस्वतीतीरे इन्द्रार्थं यागमकृत तत्र मन्त्रद्रष्टाऋषिः बहुधनलाभान्मत्द्यमेतावद्धनं कोवाप्रायच्छदिति विकल्पयते । दाशुषे इन्द्राय हवींषिदत्तवते मत्द्यं इन्द्रोवाघेत् इन्द्रएव किंखल्वेतावन्मघं मंहनीयं धनं ददिः प्रायच्छत् यद्वा सुभगा शोभनधना सर- स्वती नदी वसु धनं ददिः किं प्रायच्छत् । अथवा चित्रएतन्नामक हे राजन् त्वं वा एतावद्धनं मत्द्यं प्रादाइति ॥ १७ ॥