श्रवणम्

8.89.1
बृ॒हदिन्द्रा᳚य गायत॒ मरु᳚तो वृत्र॒हन्त᳚मम् ।
येन॒ ज्योति॒रज᳚नयन्नृता॒वृधो᳚ दे॒वं दे॒वाय॒ जागृ᳚वि ॥
▶ पदपाठः (Word-by-word)
बृ॒हत् । इन्द्रा᳚य । गा॒य॒त॒ । मरु᳚तः । वृ॒त्र॒हम्॑त᳚मम् ।
येन᳚ । ज्योतिः᳚ । अज᳚नयन् । ऋ॒त॒॑वृधः᳚ । दे॒वम् । दे॒वाय᳚ । जागृ᳚वि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः । रुशब्दे मितं रुवंतीति मरुतः । हे मितभाषिणः स्तोतारः वृत्रहन्तमं अतिशयेन पापविनाशनं बृहत्साम इन्द्राय इन्द्रार्थं गायत अस्मदीययज्ञे गानं कुरुत । ऋतावृधः सत्यस्य यज्ञस्यवा वर्धका विश्वेदेवाः देवाय द्योतमानायेन्द्राय देवं देवनशीलं जागृवि सर्वेषां जा- गरणशीलं ज्योतिः सूर्यं येनसाम्ना अजनयन् इन्द्रार्थमुदपादयन् तत्सामगायतेति ॥ १ ॥