श्रवणम्

8.7.21
न॒हि ष्म॒ यद्ध᳚ वः पु॒रा स्तोमे᳚भिर्वृक्तबर्हिषः ।
शर्धा{4}᳚ ऋ॒तस्य॒ जिन्व᳚थ ॥
▶ पदपाठः (Word-by-word)
न॒हि । स्म॒ । यत् । ह॒ । वः॒ । पु॒रा । स्तोमे᳚भिः । वृ॒क्त॒॑ब॒र्हि॒षः॒ ।
शर्धा᳚न् । ऋ॒तस्य᳚ । जिन्व᳚थ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वया वितर्क्येदानीं निश्चिनोति हे वृक्तबर्हिषः प्रवृत्तयज्ञकामरुतः नहिष्म तन्नखलु संभवति वोयूयं पुरा अस्मत्तः पूर्वमेव कृतैः स्तोमेभिः अन्यदीयैः स्तोत्रैः ऋतस्योदकस्य सत्यस्य यज्ञस्यवा संबन्धिनः शर्धान् आत्मीयानि बलानि जिन्वथ प्रीणयथेति यद्ध यत् खलु तन्न संभवत्येव अतः शीघ्रमागच्छतेत्यर्थः । यद्वा वृक्तबर्हिषइति ऋत्विङ्गाम हे ऋत्विजः वोयुष्माकं संबन्धिभिः स्तोमेभिः स्तोत्रैः ऋतस्य यज्ञस्य संबन्धिनोयागार्हान् शर्धान् मारुतानि बलानि पुरा अन्येभ्यः स्तोतृभ्यः पूर्वं यद्यस्मात्कारणात् जिन्वथ यूयं प्रीणयथ जिविः प्रीणनार्थः तस्मादन्यदीयैः स्तोत्रैः नहिष्म न खलु ते मरुतोवशीभवन्तीत्यर्थः ॥ २१ ॥ प्रवर्ग्ये महावीरे पयसोरासिक्तयोः सतोः समुत्येमहतीरपइत्येषानुवक्तव्या सूत्र्यतेहि-आसिक्तयोः समुत्येमहतीरपइति महावीरमादायोत्तिष्ठत्स्विति ।