श्रवणम्

8.7.26
उ॒शना॒ यत्प᳚रा॒वत᳚ उ॒क्ष्णो रन्ध्र॒मया᳚तन ।
द्यौर्न च᳚क्रदद्भि॒या ॥
▶ पदपाठः (Word-by-word)
उ॒शना᳚ । यत् । प॒रा॒॑वतः᳚ । उ॒क्ष्णः । रन्ध्र᳚म् । अया᳚तन ।
द्यौः । न । च॒क्र॒द॒त् । भि॒या ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः उशनाः व्यत्ययेन प्रथमा उशनसा काव्येन ऋषिणा स्तूयमाना यूयम् यद्वा उशनस् शब्दात् सुपांसुलुगिति जसःसुः उशनसः स्तोतॄन् कामयमाना यूयं उक्ष्णः सेक्तुः कामानां वर्षितुः आत्मीयस्यरथस्य वृष्टिहेतोरन्तरिक्षस्यवा रन्ध्रं मध्यं परावतोदूरदेशात् यद्यदा अयातनागच्छत यातेर्लङि मध्यमबहुवचनस्य तप्तनप्तनथनाश्चेति तनबादेशः तदानीं द्यौर्न अत्र द्युशब्देन तत्रत्योजनसंघो- लक्ष्यते द्युलोके वर्तमानोजनसङ्घइव पार्थिवमपि सर्वं भूतजातं भिया युष्मद्वेगजनितया भीत्या चक्रदत् अशब्दयत् अकम्पत वा ॥ २६ ॥