उ॒त त्यं वी॒रं ध᳚न॒सामृ᳚जी॒षिणं᳚ दू॒रे चि॒त्सन्त॒मव᳚से हवामहे ।
यस्य॒ स्वादि᳚ष्ठा सुम॒तिः पि॒तुर्य᳚था॒ मा नो॒ वि यौ᳚ष्टं स॒ख्या मु॒मोच᳚तम् ॥
यस्य॒ स्वादि᳚ष्ठा सुम॒तिः पि॒तुर्य᳚था॒ मा नो॒ वि यौ᳚ष्टं स॒ख्या मु॒मोच᳚तम् ॥
पदपाठः (Word-by-word)
उ॒त । त्यम् । वी॒रम् । ध॒न॒॑साम् । ऋ॒जी॒षिण᳚म् । दू॒रे । चि॒त् । सन्त᳚म् । अव᳚से । ह॒वा॒म॒हे॒ ।
यस्य᳚ । स्वादि᳚ष्ठा । सु॒॑म॒तिः । पि॒तुः । य॒था॒ । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच᳚तम् ॥
यस्य᳚ । स्वादि᳚ष्ठा । सु॒॑म॒तिः । पि॒तुः । य॒था॒ । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच᳚तम् ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ उतापिच वीरं कर्मणि समर्थं धनसां धनानां संभक्तारं ऋजीषिणं ऋजीषोपार्जितोभिषुतः सोमस्तद्वन्तं दूरेचित् दूरेएवसन्तं भवन्तं विनष्टमिव त्यं तं विष्णाप्वं अवसेस्माकं रक्षणाय हवामहे आह्वयामः । पुत्रोहि पितरं रक्षते । किंच यस्य पुत्रस्य पौत्रस्य वा सुमतिः शोभना स्तुतिः स्वादिष्ठा स्वादुतमा अतिशयेन देवानां स्वादुकारिणीत्यर्थः । तत्रदृष्टान्तः-पितुर्यथा पितुर्विश्वकस्य स्तुतिर्यथा देवानां प्रीतिकरी तद्वत् तस्मात्तमाह्वयामइतिशेषः । मानोइति गतार्थः ॥ ४ ॥