यु॒वं हि ष्मा᳚ पुरुभुजे॒ममे᳚ध॒तुं वि᳚ष्णा॒प्वे᳚ द॒दथु॒र्वस्य᳚इष्टये ।
ता वां॒ विश्व᳚को हवते तनूकृ॒थे मा नो॒ वि यौ᳚ष्टं स॒ख्या मु॒मोच᳚तम् ॥
ता वां॒ विश्व᳚को हवते तनूकृ॒थे मा नो॒ वि यौ᳚ष्टं स॒ख्या मु॒मोच᳚तम् ॥
पदपाठः (Word-by-word)
यु॒वम् । हि । स्म॒ । पु॒रु॒॑भु॒जा॒ । इ॒मम् । ए॒ध॒तुम् । वि॒ष्णा॒प्वे᳚ । द॒दथुः᳚ । वस्यः᳚॑इष्टये ।
ता । वा॒म् । विश्व᳚कः । ह॒व॒ते॒ । त॒नू॒॑कृ॒थे । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच᳚तम् ॥
ता । वा॒म् । विश्व᳚कः । ह॒व॒ते॒ । त॒नू॒॑कृ॒थे । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच᳚तम् ॥
सायणभाष्यम् (Sayana Commentary)
हे पुरुभुजा पुरुभुजौ पुरूणां बहूनां धनादिदानेन भोजयितारौ यद्वा बहूनां स्तोतॄणां पालयितारौ अश्विनौ युवं हिष्मेत्यवधारणे युवामेव इममेधतुं एधतेरेधिवहोश्चतुरिति चतुप्रत्ययः चित्त्वादन्तोदात्तः । इमां धनादिवृद्धिं विष्णाप्वे विष्णोः सर्वेषां देवानां मुख्यत्वात्तद्ग्र्रहणे सर्वेदेवा गृहीताभ- वन्ति विष्ण्वादीन् कर्मणा व्याप्नोतीति विष्णापूः पृषोदरादिः । यद्वा विष्णुं सर्वग्रहेषु व्याप्तं सोमं दशापवित्रेण आपुनातीति तस्य चतुर्थी विष्णा- प्वइति । एतन्नामकेममपुत्रे पौत्रे वा पुत्राय पौत्राय वा इमां धनादिवृद्धिं ददथुः अदत्तम् । किमर्थं वस्यइष्टये वसीयसः प्रशस्तधनस्य इष्टये इच्छां पूरयितुम् । क्रियार्थोपपदस्येति चतुर्थी । तावामिति पूर्ववड्याख्येयम् ॥ ३ ॥