श्रवणम्

8.86.2
क॒था नू॒नं वां॒ विम᳚ना॒ उप᳚ स्तवद्यु॒वं धियं᳚ ददथु॒र्वस्य᳚इष्टये ।
ता वां॒ विश्व᳚को हवते तनूकृ॒थे मा नो॒ वि यौ᳚ष्टं स॒ख्या मु॒मोच᳚तम् ॥
▶ पदपाठः (Word-by-word)
क॒था । नू॒नम् । वा॒म् । वि॑म᳚नाः । उप᳚ । स्त॒व॒त् । यु॒वम् । धिय᳚म् । द॒द॒थुः॒ । वस्यः᳚॑इष्टये ।
ता । वा॒म् । विश्व᳚कः । ह॒व॒ते॒ । त॒नू॒॑कृ॒थे । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच᳚तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ विमनाः एतन्नामकऋषिः नूनं पुरा कथा कथं वां युवामुपस्तवत् कथमुपस्तौत् । तेन स्तुतौ युवं युवां वस्यइष्टये वस्योवसीयः प्रशस्तं धनं तस्याभिलषितस्य इष्टये अभिगमनाय यद्वावशिष्टधनस्यइष्टये प्राप्तये धियं बुद्धिं विमनसे ददथुः अदधाथां खलु । वस्यइति वसुमच्छब्दादी- यसुनि विन्मतोर्लुगिति लुक् ईयसुन् ईकारलोपश्छान्दसः । तादृशौ युवां विश्वकोहवतइति गतम् ॥ २ ॥