ते न᳚स्त्राध्वं॒ ते᳚॑वत॒ त उ᳚ नो॒ अधि᳚ वोचत ।
मा नः᳚ प॒थः पित्र्या᳚न्मान॒वादधि᳚ दू॒रं नै᳚ष्ट परा॒वतः᳚ ॥
मा नः᳚ प॒थः पित्र्या᳚न्मान॒वादधि᳚ दू॒रं नै᳚ष्ट परा॒वतः᳚ ॥
पदपाठः (Word-by-word)
ते । नः॒ । त्रा॒ध्व॒म् । ते॒ । अ॒व॒त॒ । ते । ऊं॒ इति᳚ । नः॒ । अधि᳚ । वो॒च॒त॒ ।
मा । नः॒ । प॒थः । पित्र्या᳚त् । मा॒न॒वात् । अधि᳚ । दू॒रम् । नै॒ष्ट॒ । प॒रा॒॑वतः᳚ ॥
मा । नः॒ । प॒थः । पित्र्या᳚त् । मा॒न॒वात् । अधि᳚ । दू॒रम् । नै॒ष्ट॒ । प॒रा॒॑वतः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे देवाः ते यूयं नोस्मान् त्राध्वं बाधकेभ्यो रक्षोभ्यस्त्रायध्वं ते यूयं अवत धनादिप्रदानैरस्मान्त्रक्षत तेएवदेवा नोस्मानधिवोचत अधिकंभवन्तः कर्म- कारिणो धनादिमन्तश्च भवन्त्विति यूयं ब्रूत । किंच हे देवाः मानवात् पित्र्यात् मनुः सर्वेषां पिता तताआगतात् परावतः पिता मनुर्दूरंमार्गं चक्रे त- स्मात्पथोमार्गान्नोस्मान्मानैष्ट मा नयत अपनयनं माकुरुतेत्यर्थः सर्वदा ब्रह्मचर्याग्निहोत्रादिकर्माणि येन मार्गेण भवन्ति तमेवास्मान्नयत । किन्तु दूरं यएतद्मतिरिक्तोविप्रकृषृमार्गोस्ति तस्मादधि अधिकमित्यर्थः अस्मानपनयत ॥ ३ ॥