श्रवणम्

8.74.12
यं त्वा॒ जना᳚स॒ ईळ᳚ते स॒बाधो॒ वाज᳚सातये ।
स बो᳚धि वृत्र॒तूर्ये᳚ ॥
▶ पदपाठः (Word-by-word)
यम् । त्वा॒ । जना᳚सः । ईळ᳚ते । स॒॑बाधः᳚ । वाज᳚॑सातये ।
सः । बो॒धि॒ । वृ॒त्र॒॑तूर्ये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यं त्वा त्वां जनासो जनाः स्तोतारो वः वाजसातये अन्नस्यलाभाय सबाधः निर्बन्धरूपबाधोपेताः सन्त ईळते स्तुवन्ति सत्वं वृत्रतूर्ये वैरिनाशानाय पापक्षयायवा बोधि बुध्यस्व । अथवा वृत्रस्य तूर्ये संग्रामे बोधि ॥ १२ ॥