यं जना᳚सो ह॒विष्म᳚न्तो मि॒त्रं न स॒र्पिरा᳚सुतिम् ।
प्र॒शंस᳚न्ति॒ प्रश᳚स्तिभिः ॥
प्र॒शंस᳚न्ति॒ प्रश᳚स्तिभिः ॥
पदपाठः (Word-by-word)
यम् । जना᳚सः । ह॒विष्म᳚न्तः । मि॒त्रम् । न । स॒र्पिः॑आ᳚सुतिम् ।
प्र॒॑शंस᳚न्ति । प्रश᳚स्ति॑भिः ॥
प्र॒॑शंस᳚न्ति । प्रश᳚स्ति॑भिः ॥
सायणभाष्यम् (Sayana Commentary)
यमग्निं जनासो जनायजमाना हविष्मन्तः सन्तो मित्रंन मित्रमिव आदित्यमिव सखायमिव वा सर्पिरांसुतिं सर्पिरासूयते हूयते यस्मिन् तादृशं प्रशंसन्ति स्तुवन्ति । प्रशस्तिभिः स्तुतिभिः स्तुवइतिशेषः ॥ २ ॥