श्रवणम्

8.74.7
इ॒यं ते॒ नव्य᳚सी म॒तिरग्ने॒ अधा᳚य्य॒स्मदा ।
मन्द्र॒ सुजा᳚त॒ सुक्र॒तो॑मू᳚र॒ दस्माति᳚थे ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । ते॒ । नव्य᳚सी । म॒तिः । अग्ने᳚ । अधा᳚यि । अ॒स्मत् । आ ।
मन्द्र᳚ । सु॑जा᳚त । सुक्र᳚तो॒ इति॒ सु॑क्र᳚तो । अमू᳚र । दस्म᳚ । अति᳚थे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने इयं इदानीं क्रियमाणा नव्यसी नवतरा मतिः स्तुतिस्ते तव स्वभूताअस्मदस्मासु अधायि धृताभूत् वयं तव स्तुतिं कुर्मइत्यर्थः । हे मन्द्र मोदमान सुजात शोभनजनन सुक्रतो शोभनकर्मन् अमूरामूढ दस्म दर्शनीयातिथे अतिथिवत्पूज्येत्यग्नेर्विशेषणानि ॥ ७ ॥