श्रवणम्

8.74.10
अश्व॒मिद्गां र᳚थ॒प्रां त्वे॒षमिन्द्रं॒ न सत्प᳚तिम् ।
यस्य॒ श्रवां᳚सि॒ तूर्व᳚थ॒ पन्य᳚म्पन्यं च कृ॒ष्टयः᳚ ॥
▶ पदपाठः (Word-by-word)
अश्व᳚म् । इत् । गाम् । र॒थ॒॑प्राम् । त्वे॒षम् । इन्द्र᳚म् । न । सत्॑प᳚तिम् ।
यस्य᳚ । श्रवां᳚सि । तूर्व᳚थ । पन्य᳚म्॑पन्यम् । च॒ । कृ॒ष्टयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गां गन्तारमश्वमित् इच्छब्दइवार्थे अश्वमिव तं यथा स्तुवन्ते तथेत्यर्थः रथप्रां रथानामस्मदीयानां पूरयितारं धनैः तथा त्वेषं दीप्तं अग्निं सत्पतिं सतां पालकं इन्द्रंन इन्द्रमिव इमं कृष्टयो मनष्याः परिचरतेतिशेषः । यस्याग्नेर्बलेन श्रवांसि अन्नानि शत्रुसंबन्धीनि तूर्वथ । तथा पन्यंपन्यंच यद्यस्स्तुत्यं धनमस्ति तदपि तूर्वथ हिंस्थ ॥ १० ॥