श्रवणम्

8.74.11
यं त्वा᳚ गो॒पव᳚नो गि॒रा चनि᳚ष्ठदग्ने अङ्गिरः ।
स पा᳚वक श्रुधी॒ हव᳚म् ॥
▶ पदपाठः (Word-by-word)
यम् । त्वा॒ । गो॒पव᳚नः । गि॒रा । चनि᳚ष्ठत् । अ॒ग्ने॒ । अ॒ङ्गि॒रः॒ ।
सः । पा॒व॒क॒ । श्रु॒धि॒ । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यं त्वा त्वां गोपवनऋषिर्गिरा स्तुत्या चनिष्ठदतिशयेनान्नप्रदातारमकरोत् सतादृशाग्ने अङ्गिरः सर्वत्रगन्तः अङ्गिरसांमध्ये एकवा पावक शोधक हवं गोपवनस्य श्रुधि शृणु ॥ ११ ॥