श्रवणम्

8.60.11 समानपद
आ नो᳚ अग्ने वयो॒वृधं᳚ र॒यिं पा᳚वक॒ शंस्य᳚म् ।
रास्वा᳚ च न उपमाते पुरु॒स्पृहं॒ सुनी᳚ती॒ स्वय᳚शस्तरम् ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । अ॒ग्ने॒ । व॒यः॒॑वृध᳚म् । र॒यिम् । पा॒व॒क॒ । शंस्य᳚म् ।
रास्व᳚ । च॒ । नः॒ । उ॒प॒॑मा॒ते॒ । पु॒रु॒॑स्पृह᳚म् । सु॑नी᳚ती । स्वय᳚शः॑तरम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने पावक शोधक वयोवृधमन्नस्य वर्धकं शंस्यं शंसनीयं रयिं धनं नोस्मभ्यमाहरेतिशेषः । आहृत्य च हे उपमाते उपास्मत्समीपे माति नो धनमित्युपमातिः । हे तादृशाग्ने नोस्मभ्यं सुनीती सुनीत्या शोभननयनेन पुरुस्पृहं बहुभिः स्पृहणीयं स्वयशस्तरं अत्यन्तं स्वभूतकीर्तिधनं रास्व च देहि ॥ ११ ॥