वृष᳚णस्ते अ॒भीश᳚वो॒ वृषा॒ कशा᳚ हिर॒ण्ययी᳚ ।
वृषा॒ रथो᳚ मघव॒न्वृष᳚णा॒ हरी॒ वृषा॒ त्वं श᳚तक्रतो ॥
वृषा॒ रथो᳚ मघव॒न्वृष᳚णा॒ हरी॒ वृषा॒ त्वं श᳚तक्रतो ॥
पदपाठः (Word-by-word)
वृष᳚णः । ते॒ । अ॒भीश᳚वः । वृषा᳚ । कशा᳚ । हि॒र॒ण्ययी᳚ ।
वृषा᳚ । रथः᳚ । म॒घ॒॑व॒न् । वृष᳚णा । हरी॒ इति᳚ । वृषा᳚ । त्वम् । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ॥
वृषा᳚ । रथः᳚ । म॒घ॒॑व॒न् । वृष᳚णा । हरी॒ इति᳚ । वृषा᳚ । त्वम् । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ॥
सायणभाष्यम् (Sayana Commentary)
हे मघवन् ते तव अभीशवोरश्मयोऽश्वरशनाः वृषणः वर्षितारः हिरण्ययी हिरण्मयी कशापि वृषा रथोपि वृषा वर्षिता हरी अश्वावपि वृषणा वृष- णौ वर्षितारौ हे शतक्रतो बहुप्रज्ञेन्द्र त्वंच वृषा वर्षिता ॥ ११ ॥