श्रवणम्

8.33.15
अ॒स्माक᳚म॒द्यान्त᳚मं॒ स्तोमं᳚ धिष्व महामह ।
अ॒स्माकं᳚ ते॒ सव᳚ना सन्तु॒ शंत᳚मा॒ मदा᳚य द्युक्ष सोमपाः ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । अ॒द्य । अन्त᳚मम् । स्तोम᳚म् । धि॒ष्व॒ । म॒हा॒॑म॒ह॒ ।
अ॒स्माक᳚म् । ते॒ । सव᳚ना । स॒न्तु॒ । शम्॑त᳚मा । मदा᳚य । द्यु॒क्ष॒ । सो॒म॒॑पाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे महामह महतामपि महान् महापूज्यवा अद्यान्तममन्तिकतममस्माकं मेध्यातिथीनां स्तोमं धिष्व धारय । हे द्युक्ष दीप्त सोमपाः सोमस्य पातरिन्द्र ते तव मदाय मदार्थं सवना सवनान्यस्माकं शन्तमा शन्तमानि सुखतमानि सन्तु भवन्तु ॥ १५ ॥