श्रवणम्

8.33.9
य उ॒ग्रः सन्ननि᳚ष्टृतः स्थि॒रो रणा᳚य॒ संस्कृ᳚तः ।
यदि᳚ स्तो॒तुर्म॒घवा᳚ शृ॒णव॒द्धवं॒ नेन्द्रो᳚ योष॒त्या ग᳚मत् ॥
▶ पदपाठः (Word-by-word)
यः । उ॒ग्रः । सन् । अनि᳚॑स्तृतः । स्थि॒रः । रणा᳚य । संस्कृ᳚तः ।
यदि᳚ । स्तो॒तुः । म॒घ॑वा᳚ । शृ॒णव᳚त् । हव᳚म् । न । इन्द्रः᳚ । यो॒ष॒ति॒ । आ । ग॒म॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यउग्रः उदूर्णः ओजस्वीवा सन् भवन् अनिष्टृतः शत्रुभिरनिस्तीर्णः स्थिरोचलोरणाय युद्धाय संस्कृतः शस्त्रैरलंकृतः सोमैर्वासंस्कृतः सइन्द्रोमघवा ध- नवान् यदिस्तोतुर्हवमाह्वानं श्रृणवच्छृणोति तर्त्द्यन्यत्र नयोषति नगच्छति किंतु आगमत् तत्रैवागच्छति ॥ ९ ॥