वृषा॒ सोता᳚ सुनोतु ते॒ वृष᳚न्नृजीपि॒न्ना भ᳚र ।
वृषा᳚ दधन्वे॒ वृष᳚णं न॒दीष्वा तुभ्यं᳚ स्थातर्हरीणाम् ॥
वृषा᳚ दधन्वे॒ वृष᳚णं न॒दीष्वा तुभ्यं᳚ स्थातर्हरीणाम् ॥
पदपाठः (Word-by-word)
वृषा᳚ । सोता᳚ । सु॒नो॒तु॒ । ते॒ । वृष᳚न् । ऋ॒जी॒पि॒न् । आ । भ॒र॒ ।
वृषा᳚ । द॒ध॒न्वे॒ । वृष᳚णम् । न॒दीषु᳚ । आ । तुभ्य᳚म् । स्था॒तः॒ । ह॒री॒णा॒म् ॥
वृषा᳚ । द॒ध॒न्वे॒ । वृष᳚णम् । न॒दीषु᳚ । आ । तुभ्य᳚म् । स्था॒तः॒ । ह॒री॒णा॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हे वृषन् वर्षितरिन्द्र ते तव सोताभिषवकर्ता वृषा वर्षितासन् सुतोतु सोममभिषुणोतु । हे ऋजीषिन् ऋजुगमनेन्द्र आभर धनमस्मभ्यमाहर हरीणामश्वानां आ आभिमुख्येन हेस्थातरिन्द्र तुभ्यं नदी षूदकेषु वृषणं वर्षितारं सोमं वृषा वर्षिता दधन्वे धारितवानभिषवार्थम् ॥ १२ ॥