श्रवणम्

8.33.1
व॒यं घ᳚ त्वा सु॒ताव᳚न्त॒ आपो॒ न वृ॒क्तब᳚र्हिषः ।
प॒वित्र᳚स्य प्र॒स्रव᳚णेषु वृत्रह॒न्परि᳚ स्तो॒तार᳚ आसते ॥
▶ पदपाठः (Word-by-word)
व॒यम् । घ॒ । त्वा॒ । सु॒त॑व᳚न्तः । आपः᳚ । न । वृ॒क्त॑ब᳚र्हिषः ।
प॒वित्र᳚स्य । प्र॒॑स्रव᳚णेषु । वृ॒त्र॒॑ह॒न् । परि᳚ । स्तो॒तारः᳚ । आ॒स॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृत्रहन् त्वा त्वां वयंघ वयंखलु सुतवन्तः सोममभिषुतवन्तः आपोन आपइव प्रवणमभिगच्छामः पवित्रस्य सोमानां प्रस्रवणेषु वृक्तबर्हिषस्तीर्ण- बर्हिषः स्तोतारश्च त्वां पर्यासत पर्युपासते ॥ १ ॥