श्रवणम्

8.33.8
दा॒ना मृ॒गो न वा᳚र॒णः पु᳚रु॒त्रा च॒रथं᳚ दधे ।
नकि᳚ष्ट्वा॒ नि य᳚म॒दा सु॒ते ग᳚मो म॒हा{4}श्च᳚र॒स्योज᳚सा ॥
▶ पदपाठः (Word-by-word)
दा॒ना । मृ॒गः । न । वा॒र॒णः । पु॒रु॒॑त्रा । च॒रथ᳚म् । द॒धे॒ ।
नकिः᳚ । त्वा॒ । नि । य॒म॒त् । आ । सु॒ते । ग॒मः॒ । म॒हान् । च॒र॒सि॒ । ओज᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

मृगः शत्रूणामन्वेषको वारणोगजो दानामदजलानीव पुरुत्रा बहुषु यज्ञेषु चरथं चरणशीलं मदं दधे इन्द्रोधारयति । अथप्रत्यक्षस्तुतिः हे इन्द्र त्वा त्वां नकिर्नियमत् नकश्चिन्नियच्छति सुतेसोमे आगमः आगच्छ । महान् हि त्वमोजसा बलेन सर्वतश्चरसि ॥ ८ ॥